|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.38. अध्यायः 038
Mahabharata - Adi Parva - Chapter Topics
एलापत्रभाषणम्॥ 1 ॥ देवब्रह्मसंवादमुखेनास्तीकोत्पत्तिकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-38-0x(176)(1745)
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्॥ 1-38-1(1746)
`प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो॥ 1-38-2(1747)
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता।
तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः॥' 1-38-3(1748)
न स यज्ञो न भविता न स राजा तथाविधः।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्॥ 1-38-4(1749)
दैवेनोपहतो राजन्यो भवेदिह पूरुषः।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम्॥ 1-38-5(1750)
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम॥ 1-38-6(1751)
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो॥ 1-38-7(1752)
`शापदुःखाग्नितप्तानां पन्नगानामनामयम्।
कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः॥' 1-38-8(1753)
देवा ऊचुः। 1-38-9x(177)
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः॥ 1-38-9(1754)
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता॥ 1-38-10(1755)
ब्रह्मोवाच। 1-38-11x(178)
बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः।
प्रजानां हितकामोऽहं न च वारितवांस्तदा॥ 1-38-11(1756)
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः।
तेषां विनाशो भविता न तु ये धर्मचारिणः॥ 1-38-12(1757)
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्।
पन्नगानां निबोधध्वं तस्मिन्काले समागते॥ 1-38-13(1758)
यायावरकुले धीमान्भविष्यति महानृषिः।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः॥ 1-38-14(1759)
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः॥ 1-38-15(1760)
देवा ऊचुः। 1-38-16x(179)
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्॥ 1-38-16(1761)
ब्रह्मोवाच। 1-38-17x(180)
`वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः॥ 1-38-17(1762)
तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम्।'
सनामायां सनामा स कन्यायां द्विजसत्तमः॥ 1-38-18(1763)
एलापत्र उवाच। 1-38-19x(181)
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ॥ 1-38-19(1764)
सोऽहमेवं प्रपश्यामि वासुके भगिनी तव।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय॥ 1-38-20(1765)
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया॥ ॥ 1-38-21(1766)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-38-1 इतिचेतिचेति तत्तद्वचनाभिनयप्रदर्शनम्॥ 1-38-4 न भवितेति न भवितैवेत्यर्थः। न तथाविधः यस्य राष्ट्रमृत्विजः स्वरूप वा द्रष्टुं शक्यं तादृशो न भवति मन्त्रवीर्यसंपन्नत्वात्॥ 1-38-7 तीक्ष्णास्तीक्ष्णाः अत्यन्तं तीक्ष्णाः स्त्रिय इति शेषः॥ 1-38-12 दन्दशूकाः दंशनशीलाः। क्षुद्राः अल्पेपि निमित्ते प्राणग्राहकाः॥ अष्टत्रिंशोऽध्यायः॥ 38 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|